
गुरवे नमः
पुरा शिवानन्दः इति कश्चन गुरुः आसीत् । यद्यपि सः विद्वान्, तथापि 'सर्वे शिष्याः मयि महत् गौरवं प्रदर्शयेयुः' इति इच्छा आसीत् तस्य । कदाचित् वृक्षम् आरूढवान् कश्चन शिष्यः गुरुं दृष्ट्वा अपि नमस्कारं न कृतवान्, पतनशङ्कया । गुरुः तं ताडयित्वा, अन्यान् शिष्यान् अपि आहूय 'इतः परं यदा मम शिरः दृश्यते तदा भवद्भिः मां नमस्कृत्य, अनन्तरम् एव अन्यद् कार्यं करणीयम्' इति अवदत् । तस्य अयम् आदेशः कथं फलं ददाति इत्येव अस्याः कथायाः कथावस्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Long ago there was a teacher named Shivananda. Though learned, he desired that all his disciples should show him great respect. One day, a disciple who had climbed a tree, saw the teacher but did not bow to him for fear of falling. The teacher struck him and then summoned the other disciples, saying: ‘From now on, whenever my head is visible, you must first bow to me, and only afterwards attend to any other matter.’ The outcome of this command forms the theme of this story.


















