
नाम्नः माहात्म्यम्
श्रीरामस्य लङ्काभियानसमयः । नलनिलयोः मार्गदर्शने सागरे सेतुनिर्माणम् आरब्धम् । सुविशालेषु प्रस्तरखण्डेषु रामनाम विलिख्य स्थापनेन ते जले अनिमग्नाः सन्तः स्थिरतया तिष्ठन्ति स्म । तत् दृष्ट्वा श्रीरामः सागरतटे कार्यरतेभ्यः वानरेभ्यः किञ्चित् दूरं गतवान् । भूम्याः एकां शिलाम् उन्नीय तां सागरजले निक्षिप्तवान् । आश्चर्यम् ! शिला तु पूर्णतया सागरजले निमग्ना जाता । एतत् सर्वं दृष्टवान् हनूमान् एवं कथयति "प्रभो ! अस्य एषः एव अर्थः यत् भवान् यं त्यजति तस्य पतनं निश्चितमेव" इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During Lord Rama's campaign to Lanka, Nala and Nila began building a bridge across the ocean. Huge stones inscribed with Rama's name floated steadily on the water. Seeing this, Lord Rama quietly picked up a stone and threw it into the sea. To everyone's surprise, it sank immediately. Watching this, Hanuman smiled and said, "Lord, this teaches us one truth—whoever is abandoned by You is certain to fall".


















