
ईश्वरः सर्वव्यापी
तिरुपादः कश्चन महान् शिवभक्तः । अथ कदाचित् दूरस्थं किञ्चन मन्दिरम् अगच्छत् । वयोवृद्धः सः यात्राक्लेशेन मन्दिरसोपाने एव शयितवान् । प्रभाते यदा अर्चकः आगतः तं वृद्धं दृष्ट्वा कुपितः सन् अभिषेकपात्रात् जलं स्वीकृत्य तिरुपादस्य मुखे अक्षिपत् । जागरितं तिरुपादम् अर्चकः तर्जयति । 'निश्चलौ ममं पादौ तत्र स्थापयतु यत्र ईश्वरः न स्यात् । यदा निश्चलत्वम् अपगच्छेत् तदा अहम् उत्थाय गमिष्यामि' इति तुरुपादः अवदत् । यदा अर्चकः तस्य पादौ गृहीत्वा अन्यत्र स्थापितवान् तदा तत्र अकस्मात् शिवलिङ्गम् आविर्भूतम् । एतस्मात् अर्चकः ज्ञातवान् यत् एषः तिरुपादः सामान्यः न इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Tirupada was a great devotee of Lord Shiva. Once, while visiting a distant temple, the elderly devotee became tired and slept on the temple steps. The next morning, the priest became angry on seeing him there and threw water from the worship vessel onto his face to wake him up. Tirupada calmly replied, “Please place my feet where God is not present, and I will move.” When the priest lifted his feet and placed them elsewhere, a Shiva linga suddenly appeared at that spot. Realizing this miracle, the priest understood that Tirupada was no ordinary person.


















